|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.78. अध्यायः 078
Mahabharata - Bhishma Parva - Chapter Topics
संकुलयुद्धवर्णनम् ॥ 1 ॥
Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-78-0x(4153)(42126)
ततो दुर्योधनो राजा महोत्प्रत्यागतस्मृतिः ।
शरवर्षैः पुनर्भीमं प्रत्यवारयदच्युतम् ॥ 6-78-1(42127)
एकीभूतास्ततश्चैव तव पुत्रा महारथाः ।
समेत्य समरे भीमं योधयामासुरुद्यताः ॥ 6-78-2(42128)
भीमसेनोऽपि समरे संप्राप्य स्वरथं पुनः ।
समारुह्य महाबाहुर्ययौ येन तवात्मजः ॥ 6-78-3(42129)
प्रगृह्य च महावेगं परासुकरणं दृढम् ।
सज्यं शरासनं सङ्ख्ये शरैर्विव्याध ते सुतम् ॥ 6-78-4(42130)
ततो दुर्योधनो राजा भीमसेनं महाबलम् ।
नाराचेन सुतीक्ष्णेन भृशं मर्मण्यताडयत् ॥ 6-78-5(42131)
सोऽतिविद्धो महेष्वासस्तव पुत्रेण धन्विना ।
क्रोधसंरक्तनयनो वेगेनाक्षिप्य कार्मुकम् ॥ 6-78-6(42132)
दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ।
स तत्र शुशुभे राजा शिखरैर्गिरिराडिव ॥ 6-78-7(42133)
तौ दष्ट्वा समरे क्रुद्धौ विनिघ्नन्तौ परस्परम् ।
दुर्योधनानुजाः सर्वे शूराः संत्यक्तजीविताः ॥ 6-78-8(42134)
संस्मृत्य मन्त्रितं पूर्वं निग्रहे भीमकर्मणः ।
निश्चयं परमं कृत्वा निग्रहीतुं प्रचक्रमुः ॥ 6-78-9(42135)
तानापतत एवाजौ भीमसेनो महाबलः ।
प्रत्युद्ययौ महाराज गजः प्रतिगजानिव ॥ 6-78-10(42136)
भृशं क्रुद्धश्च तेजस्वी नाराचेन समार्पयत् ।
चित्रसेनं महाराज तव पुत्रं महायशाः ॥ 6-78-11(42137)
तथेतरांस्तव सुतांस्ताडयामास भारत ।
शरैर्बहुविधैः सङ्ख्ये रुक्मपुङ्खैः सुतेजनैः ॥ 6-78-12(42138)
ततः संप्रेक्ष्य पुत्रैस्ते भीमसेनं समावृतम् ।
अभिमन्युप्रभृतयस्ते द्वदश महारथाः ॥ 6-78-13(42139)
प्रेषिता धर्मराजेन भीमसेनपदानुगाः ।
प्रतिजग्मुर्महाराज तव पुत्रान्महाबलान् ॥ 6-78-14(42140)
दृष्ट्वा रथस्थांस्ताञ्शूरान्सूर्याग्निसमतेजसः ।
सर्वानेव महेष्वासान्भ्राजमानाञ्श्रिया वृतान् ॥ 6-78-15(42141)
महाहवे दीष्यमानान्सुवर्णमकुटोञ्ज्वलान्।
तत्यजुः समरे भीमं तव पुत्रा महाबलाः ॥ 6-78-16(42142)
तान्नामृष्यत कौन्तेयो जीवमाना गता इति ।
अन्वीय च पुनः सर्वांस्तव पुत्रानपीडयत् ॥ 6-78-17(42143)
अथाभिमन्युः समरे भीमसेनेन संगतः ।
पार्षतेन च ते सर्वे कैकया द्रौपदीसुताः ॥ 6-78-18(42144)
तादृष्ट्वा समरे क्रुद्धांस्तव सैन्ये महारथाः।
दुर्योधनप्रभृतयः प्रगृहीतशरासनाः।
भृशमर्श्वैः प्रजवितैः प्रययुर्यत्र ते रथाः ॥ 6-78-19(42145)
अपराह्णे महाराज प्रावर्तत महारणः।
तावकानां च बलिनां परेषां चैव भारत ॥ 6-78-20(42146)
अभिमन्युर्विकर्णस्य हयान्हत्वा महाहवे।
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ॥ 6-78-21(42147)
हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः ।
आरुरोह रथं राजंश्चित्रसेनस्य भारत ।
योधयामास समरे तदद्भुतमिवाभवत् ॥ 6-78-22(42148)
स्थितावेकरथे तौ तु भ्रातरौ कुलवर्धनौ।
आर्जिनिः शरजालेन च्छादयामास भारत ॥ 6-78-23(42149)
चित्रसेनो विकर्णश्च कार्ष्णिं पञ्चभिरायसैः ।
विव्यधाते न चाकम्पत्कार्ष्णिर्मेरुरिव स्थितः ॥ 6-78-24(42150)
दुःशासनस्तु समरे केकयान्पञ्च मारिप ।
योधयामास राजेन्द्र तदद्भुतमिवाभवत् ॥ 6-78-25(42151)
द्रौपदेया रणे क्रुद्धा दुर्योधनमवारयन् ।
शरैराशीविषाकारैः पुत्रं तव विशांपते ॥ 6-78-26(42152)
पुत्रोऽपि तव दुर्धर्षो द्रौपद्यास्तनयान्रणे ।
सायकैर्निशितै राजन्नाजघान पृथक्पृथक् ॥ 6-78-27(42153)
तैश्चापि विद्धः शुशुभे रुधिरेम समुक्षितः ।
गिरिः प्रस्रवणैर्यद्वद्गैरिकादिविमिश्रितैः ॥ 6-78-28(42154)
भीष्मोऽपि समरे राजन्पाण्डवानामनीकिनीम् ।
कालयामास बलवान्पालः पशुगणानिव ॥ 6-78-29(42155)
ततो गाण्डीवनिर्घोषः प्रादुरासीद्विशांपते ।
दक्षिणेन वरूथिन्याः पार्थस्यरीन्विनिघ्नतः ॥ 6-78-30(42156)
उत्तस्थुः समरे तत्र कबन्धानि समन्ततः।
कुरूणां चैव सैन्येषु पाण्डवानां च भारत ॥ 6-78-31(42157)
शोणितोदं शरावर्तं गजद्वीपं हयोर्मिणम् ।
रथनौभिर्नरव्याघ्राः प्रतेरुः सैन्यसागरम् ॥ 6-78-32(42158)
छिन्नहस्ता विकवचा विदेहाश्च नरोत्तमाः ।
दृश्यन्ते पतितास्तत्र शतशोऽथ सहस्रशः ॥ 6-78-33(42159)
निहतैर्मत्तमातङ्गैः शोणितौघपरिप्लुतैः ।
भूर्भाति भरतश्रेष्ठ पर्वतैराचिता यथा ॥ 6-78-34(42160)
तत्राद्भुतमपश्याम तव तेषां च भारत ।
न तत्रासीत्पुमान्कश्चिद्यो युद्धं नाभिकाङ्क्षति ॥ 6-78-35(42161)
एवं युयुधिरे वीराः प्रार्थयाना महद्यशः।
तावकाः पाण्डवैः सार्धमाकाङ्क्षन्तो जयं युधि ॥ ॥ 6-78-36(42162)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि षष्ठदिवसयुद्धे अष्टसप्ततितमोऽध्यायः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|